वांछित मन्त्र चुनें

पव॑मानो र॒थीत॑मः शु॒भ्रेभि॑: शु॒भ्रश॑स्तमः । हरि॑श्चन्द्रो म॒रुद्ग॑णः ॥

अंग्रेज़ी लिप्यंतरण

pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ | hariścandro marudgaṇaḥ ||

पद पाठ

पव॑मानः । र॒थिऽत॑मः । शु॒भ्रेभिः॑ । शु॒भ्रशः॑ऽतमः । हरि॑ऽचन्द्रः । म॒रुत्ऽग॑णः ॥ ९.६६.२६

ऋग्वेद » मण्डल:9» सूक्त:66» मन्त्र:26 | अष्टक:7» अध्याय:2» वर्ग:12» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:26


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) पवित्र करनेवाला तथा (रथीतमः) गतिशील परमात्मा (शुभ्रेभिः) अपनी ज्योति से (शुभ्रशस्तमः) सर्वोपरि प्रकाशक है। ऐसा ईश्वर (हरिश्चन्द्रः) सबको आनन्द देनेवाले (मरुद्गणः) विद्वानों का एकमात्र उपास्य है ॥२६॥
भावार्थभाषाः - विद्वान् लोग नित्य-शुद्ध-बुद्ध-मुक्तस्वभाव परमात्मा की उपासना करते हैं, किसी अन्य की नहीं ॥२६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) पविता (रथीतमः) गतिशीलः परमेश्वरः (शुभ्रेभिः) स्वीयप्रकाशेन (शुभ्रशस्तमः) अतिप्रकाशकोऽस्ति। एतादृशो जगदीश्वरः (हरिश्चन्द्रः) सर्वानन्ददाता (मरुद्गणः) विद्वद्भिरुपासनीयोऽस्ति ॥२६॥